|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.1. अध्यायः 001
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
युधिष्ठिरेण भीष्मंप्रति पुनः शमादिकथनप्रार्थना॥ 1॥ भीष्मादिनिधने स्वस्यैव हेतुत्वबुद्ध्या स्वोपालम्भनपूर्वकं शोचन्तं युधिष्ठिरंप्रति भीष्मेण जीवस्य कर्मण्यस्वातन्त्रयमभिधाय तन्निदर्शनतया गौतमीलुब्धकादिसंवादानुवादः॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
॥ श्रीवेदव्यासाय नमः॥ 13-1-0x(6718)(81169)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव(व्यासं)ततो जयमुदीरयेत्॥ 13-1-1(81170)
वैशम्पायन उवाच।
`शरतल्पे महात्मानं शयानमपराजितम्।
युधिष्ठिर उपागम्य प्रणिपत्येदमब्रवीत्॥' 13-1-1x(6719)
शमो बहुविधाकारः सूक्ष्म उक्तः पितामह।
न च मे हृदये शान्तिरस्ति श्रुत्वेदमीदृशम्॥ 13-1-2(81171)
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता पितामह।
स्वकृतात्का नु शान्ति स्याच्छमाद्बहुविधादपि॥ 13-1-3(81172)
शराचितं शरीरं हि तीव्रव्रणमुदीक्ष्य ते।
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन्॥ 13-1-4(81173)
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम्।
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम्॥ 13-1-5(81174)
अतः कष्टतरं किन्नु मत्कृते यत्पितामहः।
इमामवस्थां `गमितः प्रत्यमित्रै रणाजिरे॥ 13-1-6(81175)
तथा चान्ये नृपतयः सहपुत्राः सबान्धवाः।
मत्कृते निधनं प्राप्ताः किन्नु कष्टतरं ततः॥ 13-1-7(81176)
वयं हि धार्तराष्ट्राश्च काममन्युवशं गताः।
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप॥ 13-1-8(81177)
इदं तु धार्तराष्ट्रास्य श्रेयो मन्ये जनाधिप।
इमामवस्थां संप्राप्तं यदसौ त्वां न पश्यति॥ 13-1-9(81178)
सोऽहमार्तिकरो राजन्सुहृद्वधकरस्तथा।
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ॥ 13-1-10(81179)
दुर्योधनो हि समरे सहसैन्यः सहानुजः।
निहतः क्षत्रधर्मेऽस्मिन्दुसत्मा कुलपांसनः॥ 13-1-11(81180)
न स पश्यति दुष्टात्मा त्वामद्य पतितं क्षितौ।
अतः श्रेयो मृतं मन्ये नेह जीवितमात्मनः॥ 13-1-12(81181)
अहं हि समरे वीर गमितः शत्रुभिः क्षयम्।
अभविष्यं यदि पुरा सह भ्रातृभिरच्युत।
न त्वामेवं सुदुःखार्तमद्राक्षं सायकार्दितम्॥ 13-1-13(81182)
नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप॥ 13-1-14(81183)
अन्यस्मिन्नपि लोके वै यथा मुच्येम किल्बिषात्।
तथा प्रशाधि मां राजन्मम चेदिच्छसि प्रियम्॥ 13-1-15(81184)
भीष्म उवाच। 13-1-16x(6720)
परतन्त्रं कथं हेतुमात्मानमनु पश्यसि।
कर्मणां हि महाभाग सूक्ष्मं ह्येतदतीन्द्रियम्॥ 13-1-16(81185)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः॥ 13-1-17(81186)
गौतमी नाम काऽप्यासीत्स्थविरा शमसंयुता।
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम्॥ 13-1-18(81187)
अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः।
लुब्धकोऽर्जुनको नाम नाम गौतम्याः समुपानयत्॥ 13-1-19(81188)
तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः।
ब्रहि क्षिप्रं महाभागे वध्यतां केन हेतुना॥ 13-1-20(81189)
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोपि वा।
न ह्यं बालहा पापश्चिरं जीवितुमर्हति॥ 13-1-21(81190)
गौतम्युवाच। 13-1-22x(6721)
विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक त्वया।
को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् 13-1-22(81191)
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः।
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके॥ 13-1-23(81192)
नास्यामृतत्वं भवितैवं हतेऽस्मि-
ञ्जीवत्यस्मिन्कोऽत्ययः स्यादयं ते।
अस्योत्सर्गे प्राणयुक्तस्य जन्तो-
र्मृत्युं लोके को न गच्छेदनन्ते॥ 13-1-24(81193)
लुब्धक उवाच। 13-1-25x(6722)
जानाम्यहं नेह गुणागुणज्ञाः
सदायुक्ता गुरवो वै भवन्ति।
स्वर्गस्य ते सूपदेशा भवन्ति
तस्मात्क्षुद्रं सर्पमेनं हनिष्ये॥ 13-1-25(81194)
शममीप्सन्तः कालयोगं त्यजन्ति
सद्यः शुचं त्वर्थविदस्त्यजन्ति।
श्रियः क्षयः शोचतां नित्यशो हि
तस्माच्छुचं मुञ्च हते भुजङ्गे॥ 13-1-26(81195)
गौतम्युवाच। 13-1-27x(6723)
न चैवार्तिर्विद्यतेऽस्मद्विधानां
धर्मात्मानः सर्वदा सञ्जना हि।
नित्यायस्तो बालजनो न चाहं
धर्मोपैति प्रभवाम्यस्य नाहम्॥ 13-1-27(81196)
न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना।
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः॥ 13-1-28(81197)
लुब्धक उवाच। 13-1-29x(6724)
हत्वा लाभः श्रेय एवाव्ययः स्या-
त्सद्योलाभःस्याद्बलिभ्यः प्रशस्तः।
कालाल्लाभो यस्तु सद्यो भवेत
श्रेयोलाभः कुत्सिते त्वीदृशि स्यात्॥ 13-1-29(81198)
गौतम्युवाच। 13-1-30x(6725)
काऽर्थप्राप्तिर्गृह्य शत्रुं निहत्य
का कामाप्तिः प्राप्य शत्रुं न मुक्त्वा।
कस्मात्सौम्याहं न क्षमे नो भुजङ्गे
मोक्षार्थं वा कस्य हेतोर्न कुर्याम्॥ 13-1-30(81199)
लुब्धक उवाच। 13-1-31x(6726)
अस्मादेकाद्बहवो रक्षितव्या
नैको बहुभ्यो गौतमि रक्षितव्यः।
कृतागसं धर्महेतोस्त्यजन्ति
सरीसृपं पापमिमं त्यज त्वम्॥ 13-1-31(81200)
गौतम्युवाय 13-1-32x(6727)
नास्मिन्हते पन्नगे पुत्रको मे
सम्प्राप्स्यते लुब्धक जीवितं वै।
गुणं चान्यं नास्य वधे प्रपश्ये
तस्मात्सर्पं लुब्धक मुञ्च जीवम्॥ 13-1-32(81201)
लुब्धक उवाच। 13-1-33x(6728)
वृत्रं हत्वा देवराट् श्रेष्ठभाग्वै
यज्ञं हत्वा भागमवाप चैव।
शूली देवो देववृत्तं चर त्वं
क्षिप्रं सर्पं जहि मा भूत्ते विशङ्का॥ 13-1-33(81202)
भीष्म उवाच। 13-1-34x(6729)
असकृत्प्रोच्यमानाऽपि गौतमी भुजगं प्रति।
लुब्धकेन महाभागा सा पापे नाकरोन्मतिम्॥ 13-1-34(81203)
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः।
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः॥ 13-1-35(81204)
सर्प उवाच। 13-1-36x(6730)
को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश।
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत्॥ 13-1-36(81205)
तस्यायं वचनाद्दष्टो न कोपेन न काम्यया।
तस्य तत्किल्बिषं लुब्ध विद्यते यदि किञ्चन। 13-1-37(81206)
लुब्धक उवाच। 13-1-38x(6731)
यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम्।
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी॥ 13-1-38(81207)
मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा।
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग॥ 13-1-39(81208)
किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग।
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम॥ 13-1-40(81209)
सर्प उवाच। 13-1-41x(6732)
सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा।
तथाहमपि तस्मान्मे नैष दोषो मतस्तव॥ 13-1-41(81210)
अथवा मतमेतत्ते तेप्यन्योऽन्यप्रयोजकाः।
कार्यकारणसन्देहो भवत्यन्योन्यचोदनात्॥ 13-1-42(81211)
एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी।
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम्॥ 13-1-43(81212)
लुब्धक उवाच। 13-1-44x(6733)
कारणं यदि स्याद्वै न कर्ता स्यास्त्वमप्युत।
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः॥ 13-1-44(81213)
असत्यपि कृते कार्ये नेह पन्नग लिप्यते।
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे॥ 13-1-45(81214)
सर्प उवाच। 13-1-46x(6734)
कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे।
तस्मात्समेऽस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः॥ 13-1-46(81215)
यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः।
अन्यः प्रयोक्तास्यादत्र किन्नु जन्तुविनाशने॥ 13-1-47(81216)
लुब्धक उवाच। 13-1-48x(6735)
वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत्।
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम॥ 13-1-48(81217)
सर्प उवाच। 13-1-49x(6736)
यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः।
न फलं प्राप्नुवन्त्यत्र फलयोगे तथा ह्यहम्॥ 13-1-49(81218)
भीष्म उवाच। 13-1-50x(6737)
तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते।
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम्॥ 13-1-50(81219)
प्रचोदितोऽहं कालेन पन्नग त्वामचूचुदम्।
विनाशहेतुर्नास्य त्वमहं न प्राणिनः शिशोः॥ 13-1-51(81220)
यथा वायुर्जलधरान्विकर्षति ततस्ततः।
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः॥ 13-1-52(81221)
सात्विका राजसाश्चैव तामसा ये च केचन।
भावाः कालात्मकाः सर्वे प्रवर्तन्तेह जन्तुषु॥ 13-1-53(81222)
जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि।
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत्॥ 13-1-54(81223)
प्रवृत्तयश्च लोके या तथैव च निवृत्तयः।
तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम्॥ 13-1-55(81224)
आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः।
अग्निः खं पृथिवी मित्रः पर्जन्यो वसवोऽदितिः॥ 13-1-56(81225)
सरितः सागराश्चैव भावाभावौ च पन्नग।
सर्वे कालेन सृज्यन्ते ह्रियन्ते च पुनःपुनः॥ 13-1-57(81226)
एवं ज्ञात्वा कथं मां सदोषं सर्प मन्यसे।
अथ चैवं गते दोषे मयि त्वमपि दोषवान्॥ 13-1-58(81227)
सर्प उवाच। 13-1-59x(6738)
निर्दोषं दोषवन्तं वा न त्वां मृत्यो ब्रवीम्यहम्।
त्वयाऽहं चोदित इति ब्रवीम्येतावदेव तु॥ 13-1-59(81228)
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते।
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम्॥ 13-1-60(81229)
निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा।
मृत्योरपि न दोषः स्यादिति मेऽत्र प्रयोजनम्॥ 13-1-61(81230)
भीष्म उवाच। 13-1-62x(6739)
सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम्।
नानागसं मां पाशेन सन्तापयितुमर्हसि। 13-1-62(81231)
लुब्धक उवाच। 13-1-63x(6740)
मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम।
नैव तावददोषत्वं भवति त्वयि पन्नग॥ 13-1-63(81232)
मृत्युस्त्वं चैव हेतुर्हि बालस्यास्य विनाशने।
उभयं कारणं मन्ये न कारणमकारणम्॥ 13-1-64(81233)
धिङ्भृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम्।
त्वां चैवाहं वधिष्यामि परपापस्य कारणम्॥ 13-1-65(81234)
मृत्युरुवाच। 13-1-66x(6741)
विवशौ कालवशगावावां निर्दिष्टकारिणौ।
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि॥ 13-1-66(81235)
लुब्धक उवाच। 13-1-67x(6742)
युवामुभौ कालवशौ यदि मे मृत्युपन्नगौ।
हर्षक्रोधौ यथा स्यातामेतदिच्छामि वेदितुम्॥ 13-1-67(81236)
मृत्युरुवाच। 13-1-68x(6743)
या काचिदेव चेष्टा स्यान्सर्वा कालप्रचोदिता।
पूर्वमेवैतदुक्तं हि मया लुब्धक तत्वतः॥ 13-1-68(81237)
तस्मादुभौ कालवशावावां निर्दिष्टकारिणौ।
नावां दोपेण गन्तव्यौ त्वया लुब्धक कर्हिचित्॥ 13-1-69(81238)
भीष्म उवाच। 13-1-70x(6744)
अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये।
अब्रवीत्पन्नगं मृत्युं लुब्धं चार्जुनकं तथा॥ 13-1-70(81239)
न ह्यहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः।
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः॥ 13-1-71(81240)
अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम्।
विनाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा॥ 13-1-72(81241)
यदनेन कृतं कर्म तेनायं निधनं गतः।
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम्॥ 13-1-73(81242)
कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः।
कर्माणि चोदयन्तीह यथान्योन्यं तथावयम्॥ 13-1-74(81243)
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते॥ 13-1-75(81244)
यथा च्छायातपौ नित्यं सुसम्बद्धौ निरन्तरम्।
तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः॥ 13-1-76(81245)
एवं नाहं न वै मृत्युर्न सर्पो न तथा भव न्।
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम्॥ 13-1-77(81246)
तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप।
स्वकर्मप्रत्ययाँल्लोकान्मत्वाऽर्जुनकमब्रवीत्॥ 13-1-78(81247)
नैव कालो न भुजगो न मृत्युरिह कारणम्।
स्वकर्मभिरयं बालः कालेन निधं गतः॥ 13-1-79(81248)
मया च तत्कृतं कर्म येनायं मे मृतः सुतः।
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम्॥ 13-1-80(81249)
भीष्म उवाच। 13-1-81x(6745)
ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः।
अभूद्विशोकोऽर्जुनको विशोका चैव गौतमी॥ 13-1-81(81250)
एतच्छ्रुत्वा शमं गच्छ मा भूः शोकपरो नृप।
स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि समितिंजय॥ 13-1-82(81251)
नैव त्वया कृतं कर्म नापि दुर्योधनेन वै।
कालेनैतत्कृतं विद्धि निहता येन पार्थिवाः॥ 13-1-83(81252)
वैशम्पायन उवाच। 13-1-84x(6746)
इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः।
युधिष्ठरो महातेजाः पप्रच्छेदं च धर्मवित्॥ ॥ 13-1-84(81253)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि प्रथमोऽध्यायः॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-1-2 धर्मो बहुविधाकार इति ट. पाठ॥ 7-1-5 सीदे सीदामि सदा वर्षमिवाम्बुदम् इति थ.पाठः॥ 7-1-6 मत्कृते मन्निमित्तम्। प्रत्यमित्रैः अमित्राणां प्रतिकूलैरस्मदीयैरर्जुनशिखण्डिप्रभृतिभिः॥ 7-1-19 अथ तं साधुपाशेनेति ध. पाठ॥ 7-1-20 केन हेतुना केनोपायेन॥ 7-1-21 हेतुमेवाह अग्नाविति॥ 7-1-22 प्राप्तव्यमविचिन्तयन्निति झ.पाठः॥ 7-1-23 प्लवन्ते दुःखार्णवं तरन्ति। मज्जन्ति च तत्रैव। वस्त्रं क्लिन्नमिवोदके इति ट. पाठः 7-1-24 उत्सर्गे प्राणोत्सर्गे॥ 7-1-29 श्रेयः परलोकहितं तदेवाऽव्ययो लाभः सच शत्रून् हत्वैव लभ्य इत्यध्याहृत्य योज्यम्। बलिभ्यः सर्वेभ्यः प्रशस्तः श्रेष्ठश्च स्यात्। शत्रुवधाल्लोकत्रयेपि मान्यो भवतीत्यर्थः॥ 7-1-31 त्यजन्ति नाशयन्ति॥ 7-1-32 मे पुत्रको जीवितं न सम्प्राप्स्यते। गुणं पुण्यम्। जीवं जीवन्तम्॥ 7-1-33 शूली यज्ञं हत्वेति सम्बन्धः॥ 7-1-35 संस्तभ्य धैर्यमालम्ब्य॥ 7-1-36 अचूचुदत् प्रेरितवान्॥ 7-1-37 दष्टो दष्टवान्। किल्बिषं चेदस्ति तर्हि प्रयोक्तुरेव न प्रयोज्यस्य मम शरस्येवेत्यर्थः॥ 7-1-39 चेतनत्वात्किल्बिषीत्यवश्यं वध्योऽसीत्यर्थः॥ 7-1-42 आयुधं हि अयस्कान्तवत्प्रहर्तारं प्रयोजयति। तेनायुधकर्तापि प्रयोजकस्तस्य चायं कारयिता प्रहर्तुकामः प्रयोजक इत्यन्योन्यप्रयोज्यत्वान्न कस्यचिद्धन्तृत्वमित्यर्थः॥ 7-1-43 समवाये समुदाये॥ 7-1-45 यतः कृतेऽपि असति दुष्टे कार्ये दोषे हेतुः कर्ता न लिप्यते तवमते। तस्मात् चोरादिरत्रैव राज्ञां वध्यः प्रायश्चित्ती च न स्यात्॥ 7-1-46 कारणे कर्तरि सति कुठारोद्यमनादिकार्येण छिदिक्रिया जायते असत्यपि कर्तरि तरुशाखान्तनिघर्षेण कार्येण तज्जेनाग्निना वनदाहक्रिया जायते। तस्माच्छाखाया इव ममापि कर्तृत्वं अप्रयोजकत्वान्न दोषहेतुः विशेषाभावादित्यर्थः॥ 7-1-49 एवमृत्विगादिवदन्यप्रेर्यत्वान्नाहं किल्बिषी किन्तु मम प्रयोजक एवेति भावः॥ 7-1-53 कालात्मकाः कालस्येवाऽऽत्मा स्वभावो येषां ते। कालानुसारिण इत्यर्थः॥ 7-1-57 भावाभावावैश्वर्यानैश्वर्ये॥ 7-1-63 मे मया॥ 7-1-67 भो मृत्युपन्नगौ यदि युवां कालवशौ तर्हि मे मम तटस्तस्य परोपकर्तरि हर्षः अपकर्त्रोश्च युवयोरुपरि द्वेषो वा यता स्यातां तथा ब्रूतम्। एतदहं वेदितुमिच्छामीत्यध्याहारपूर्वकं योज्यम्। एवं सर्वस्य परवशत्वे उपकर्त्रपकर्त्रोः स्तुतिनिन्दे न स्यातामिति भावः 7-1-68 ईश्वराधीनो जनः सदसद्वा कुर्वाणो न स्तुत्यो न वा निन्द्य इति भावः॥ 7-1-69 दोषेण युक्ताविति शेषः। गन्तव्यौ ज्ञातव्यौ॥ 7-1-70 धर्मस्यार्थः फलं तत्र विषये॥ 7-1-74 कर्मैव दायादः पुत्रवत्तारकं तद्वान्। कर्मसम्बन्धः कर्मफलयोगः तदेव लक्षणं पुण्यपापवत्ताज्ञापकं यस्य तथा॥ 7-1-78 कर्मैव प्रत्ययः कारणं येषां तान् लोकान् स्वर्गनरकादीन्॥ 7-1-80 तत्कर्म पुत्रशोकप्रदम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|